________________
[ ४०० 1
योग -
घ्राणादि स्थानयोगेन कृत्वा च रेचकं पुनः । तथा च पूरकं कृत्वा, व्याप्रियेते गमागमौ ॥२६॥ तथा कुम्भकद्वारेण, धार्यते च पुनः पुनः । अपानः कृष्णवर्णः स्याद्गलस्यानु चचैव नाडिगः ॥२७॥ चरणपृष्टभागेषु, गुदायां च स्थितः सदा । स्वकीय स्थान योगेन, कृत्वा च रेचकं पुनः ॥२=॥ तथैव पूरकं कृत्वा, जयं कर्त्तुं च शक्यते । समानः शुक्लवर्णः स्यान्नाभिहृत्सर्वसन्धिगः | २६ स्वकीयस्थानयोगेन कृत्वा च रेचकं पुनः । तथैव पूरकं कृत्वा, विजेतुं शक्यते सदा ॥३०॥ उदानो रक्तवर्णः स्याद् हृत्कण्ठतालु भ्रू स्थितः । तथा मस्तकगो ज्ञेयः गमागमनियोगतः ॥ ३१ ॥ सर्वथा वशवर्त्तीस्यादुदान स्तादृशो मतः । घाणाकर्षणयोगेन, हृदयादौ च स्थाप्यते ||३२|| बलपूर्वेण तस्यैव, आकर्षणं विधीयताम् । आकृष्योपरिरुध्वा च वशीकर्त्तु च शक्यते |३३| सर्वत्वचितुव्यानः स्याद्वर्णैरिन्द्रधनुः समः ।
प्रसारणैश्च संकोचैः क्रमेण कुम्भके कृते ॥३४॥