________________
---प्रदोप
[४०१] प्रसारणैश्च संकोचैः क्रमेण कुम्भके कृते ॥३४॥ जपं कर्तुं च शक्येत इति सर्व विचार्यताम् । प्राणापान समानानामुदानव्यानवायूनाम् ॥३५॥ क्रमेण बीजरूपाणि, तेषां ध्यानाय सन्ति वै। स्वरोदयप्रकाशे च, तत्स्वरूपं निरूपितम् ॥३६॥ प्राणवायोर्जयेदैव, जठराग्नेश्च शक्तता। दीर्घश्वासस्थ वायूनां, जयो देहेषु लाघवम् ॥३७॥ समानापानजेतव्ये, क्षतभङ्गादिरोहणम् । जठराग्नौ प्रदीतिः स्यामांसस्य स्वल्पता भवेत् ।३८। तथा व्याधिः विनाशः स्यात्तयोश्च विजये सति । उदानवायुजेतव्ये उत्क्रान्ति जलकर्दमे ॥३६॥ अबाधा सर्वदा ज्ञेया, व्यानस्य विजये तथा। शीतोष्णस्यनपीडा स्यात्कान्तिनिरोगता सदा ४० अनेनैव प्रकारेण, प्राणादीनां जये कृते । कृत्वाभ्यासं मनःस्थैर्यमभ्यासं सर्वदा भजेत् ॥४१॥ उपरोक्तासने स्थित्वा, पादाङ्गुष्ठान्तकं तथा। शनैः शनैश्च वायूनां, कर्तव्यं रेचनं पुनः ॥४२॥ पूर्यतां वाममार्गेण, प्रथमं मनसा सह । पादाङ्गुष्ठेषु रुध्वा च, रुध्यात्पादतले ततः ॥४३॥