SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [३६६] स्थाने धारणरूपत्वं, उत्तरः समधीयते ॥१७॥ ततो विपर्यरूपेण, वायूनां प्रविधारणम् । अधरः स समाख्यातः, कीर्तितं वायुसप्तकम् ।१८॥ रेचकवायुकर्तव्ये, रोगाणां च कफात्मनाम् । विनाशो जायते तस्मात्पूरकेनैव पुष्टिता ॥१६॥ व्याधीनां परिनाशश्च, कुम्भकेनैव तन्यते । हृत्पद्मप्रविकाशं च, नश्येदान्तरग्रन्थिता ॥२०॥ बलस्थिरत्व वस्तूनां, वृद्धिस्तु सर्वथा भवेत् । प्रत्याहारेण कान्तीनां, बलानां च प्रवृद्धिता ॥२१॥ शान्त्या च दोषशान्तिः स्यादुत्तराधरवायूनाम् । सेवनात्कुम्भकानां च, स्थिरता सर्वतो मुखी ॥२२॥ स्थानवर्ण क्रियार्थानां, ज्ञायकः शुद्धताजुषः। प्राणायामस्य द्वारेण, प्राणापानसमानके ॥२३॥ उदातव्यानवायूनां, जयं कर्तुं च शक्यते । प्राणवायुश्च नासाग्रे, हन्नाभिचरणान्तके ॥२४॥ तत्रैव सर्वदा ज्ञेयः, हरिद्वर्णेन संयुतः। गमागमस्य व्यापर्तेः, धारणेन विजीयते ॥२५॥ १ गमनागमनव्यापारस्य
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy