SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 'प्राणायामस्वरूपवर्णनम् वीतरागं जगन्नाथं सर्वज्ञं शुद्धरूपकम् । निष्कलङ्क जगद्धयेयं वंदे तं वीरस्वामिनम् ॥१॥ वाराणस्यां च यज्जाता कल्याणकचतुष्टयी। यस्योपदेशसामग्री प्राप्य तरन्ति सागरम् ॥२॥ येनापकारबुद्धीनां कमठादि दुरात्मानाम् । घोरोपसर्गकत्तु णां चोपरि करुणा कृता ॥३॥ घाणविवरपर्यन्तं, जलधूलिविमिश्रितम् । ताहग् जलं च वर्षन्तं, कमळं तारयन्ति ये ॥४॥ तं पाय-धीशदेवेशं, नत्वा जगदुद्धारकम् । स्वगुरुं हृदि संस्थाप्य, प्राणायामो वितन्यते ॥५॥ ध्यानस्य परिसिद्ध्यर्थ, प्राणायामः प्रकीर्तितः। तं विना चित्तवाय्वोश्च, जयं कत्तुं न शक्यते ॥६॥ यत्र स्वान्तं मरुत्तत्र, यत्रानिलस्ततोमनः । क्षीरनीरसमोज्ञेयः, सम्बन्धस्तत्र सम्मतः ॥७॥ एकस्यैव विनाशेच, द्वितीयं परिनश्यिति । एकस्यैव स्थितौ चैव, द्वितीयं परितिष्ठति ॥८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy