________________
[३६६]
योगप्रायोऽत्र विघ्नता नैव, धर्महेतौ प्रजायते । अनाचारपरीहारात्साधनं प्रतिपद्यते ॥६॥ येषां पूर्णा च सामग्री तेषां कार्ये तु पूर्णता । पूर्णसाधनभावाय, प्रयत्नः प्रविधीयताम् ॥१४॥ स्थिरबन्धस्वरूपत्वमासनमत्र सम्मतम् । स्थिरासने च सद्ध यानं स्थिररूपेण जायते ॥६॥ येषामासनसिद्धिः स्यात्प्राणायामादिके तथा । योगाङ्ग प्रवृत्तिस्तेषामस्खलिता प्रजायते ॥१६॥ यमनियमरूपे च योगाङ्ग शुद्धपालिते। तेषामासनसंसिद्धिः भवति सर्वदा शुभा ॥१७॥ धन्यास्ते पुरुषा ज्ञेया सेवन्ते ये च स्वासनम् । धर्महेतुः सदा चैवं ते नराः सुखभागिनः ६८॥ इति श्री शास्त्रविशारद जैनाचार्य जगदगुरु विश्ववन्द्य श्रीविजयधर्मसूरीश्वर शिष्येण न्यायविशारद न्यायतीर्थोपाध्याय मङ्गलविजयेन विरचिते योग प्रदीपे तृतीययोगाङ्गासन वर्णननामो पञ्चदशम प्रकाशः समाप्तः॥