________________
[३६४]
योगस्याज्जंधयोरधो भागे पादोपरि कृते सति ।। पर्यको नाभिगोत्तान, दक्षिणोत्तरपाणिकः ॥७॥ वामोंऽहिदक्षिणोरूर्व, वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ॥७६॥ पृष्टे वजाकृती भूते दोा वीरासने सति । गृह्णीयात्पादयोर्यत्राङ्गुष्टौ वज्रासनं तु तत् ॥७७॥ सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थितिर्या ता मन्ये वीरासनं विदुः ॥७॥ जवाया मध्यभागे तु, संश्लेषो यत्र जंघया। पद्मासनमिति प्रोक्त, तदासनविचक्षणैः ॥७॥ संपुटी कृत्य मुष्काग्रे, तलपादौ तथोपरि । पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥८॥ श्लिष्टाङ्ग ली श्लिष्टगुल्फौ, भूश्लिष्टौरू प्रसारयेत् । यत्रोपविश्य पादौ तत् दण्डासनमुदीरितम् ॥१॥ आयासेन सदा मुक्तः, घ्राणाग्रे नेत्रतां न्यसेत् । सम्मील्य चौष्टको द्वौच, प्रसन्नमुखतां भजेत् ८२ पूर्वोत्तरदिशायां च, मुखं कृत्वाऽप्रमादवान् । ध्यानकर्त्ता तु योगीन्द्रः, ध्यानार्थमुद्यतो भवेत् ।८३