________________
.حمي ممي جمرمرميم
[३६२]
योगतत्पर्पङ्कासनं ज्ञेयमन्यत्सर्वं निरूप्यते ॥५७॥ यत्र वै वामपादश्च, दक्षिण कोपरि । तथा दक्षिणपादस्तु, वामजंघासु धारयेत् ॥५॥ एवं कार्ये च कर्तव्ये, यदासनं प्रजायते । तदासनं तु विज्ञेयं, वीरासनाभिधानकम् ॥३६॥ पूर्वोक्तेन प्रकारेण, वीरासने कृते सति । पृष्टभागे च वज्रवदाकृतिमत्करेण च ॥६०॥ यत्रासने द्विपादांगूष्टकौ च परिग्राह्यको । तदासनं तु विज्ञयं, वज्रासनाभिधानकम् ॥६१॥ क्षमायां पादरक्षा च, कार्या सिंहासने तथा। उपविश्य ततः पश्चादपनयो विधीयताम् ॥२॥ तादृशकार्यकर्त्तव्ये, अवस्थितिश्च यादृशी। तादृशीमपि केचिच्च, वीरासनं वदन्ति च ॥६॥ वीरासनस्य मन्तव्ये, मतान्तरं प्रदर्श्यते । यत्पतञ्जलिना प्रोक्तं, तदपि प्रतिपाद्यते ॥६४॥ आसनादुत्थिते चैव, क्षमायामेकपादकम् । द्वितीयं घु ण्टिपर्यन्तं,कृष्ट्वोपरि तु स्थापयेत् ॥६५॥ तादृक्पादरक्षातश्च, यदासनं प्रकाश्यते ।