________________
-प्रदीप
[३६१]
तादृशां दुष्टजीवानां,विना माध्यस्थ भावनाम् ।४८ अन्यो-पापस्तु नास्त्येव, अतो माध्यस्थ भावना । कर्तव्या सर्वदा शान्तचितेन सुखकांक्षिणा ॥४६॥ एतादृग्भावना द्वारा, त्रुटिता ध्यानसन्ततेः। संघातुमपि शक्तः स्यात्परिणामविशृद्धितः ॥५०॥ योगिनाऽऽसनतां जित्वा, ध्यानमार्गस्य सिद्धये । तीर्थ पर्वतस्थानादौ, विशुद्धे यत्र कुत्रचित् ॥५१॥ तत्रैकान्तं समाश्रित्य ध्यानाय योगिना सदा। आसनाऽभ्यासता कार्या,सर्वदा सुखमिच्छुना॥५२॥ जैनदर्शनानुसारेणासनविशुद्धरूपकम् । शास्त्राणि च समालोक्य, मया किञ्चित्प्रकाश्यते॥५३ पर्यङ्कासननामाख्यं, वीरवज्रासने तथा । अजभद्रासने चैव, दण्डासनं तथैव च ॥५४॥ उत्कटिकासनं ज्ञेयं, गोदोहासनता तथा । कायोत्सर्गासनं चैव, इत्याद्यासननामकम् ॥५५॥ जंघाद्वयस्य चाधस्ताद्भागस्य चरणोपरि । कर्तव्ये नाभिपर्यन्ते, दक्षिणवामहस्तकौ ॥५६॥ उपरिस्थापनीयौ तौ, तत्र यदासनं भवेत् ।