________________
प्रदीप
[ ३८६] योगशास्त्रेषु ज्ञातव्यं,योगाभ्यासं चिकीर्षता ॥३१॥
॥ कुलकम् ॥ ॥ वज्रासनस्वरूपम्॥ जैनशास्त्रानुसारेण, आसनोक्तत्वपूर्वकम् । ध्यानसंक्षेपरूपत्वं, प्रोच्यते शुद्धबुद्धितः ॥३२॥ छद्मस्थयोगिनां स्वान्तस्थिरतारूपध्यानकम् । एकमुहूर्तपर्यन्तं, तिष्ठति सुखपूर्वकम् ॥३३॥ तद्ध यानमत्र विज्ञेयं, द्विविधं धर्मशुक्लतः । मोक्षकारणकं तच्च परे संसारवर्धके ॥३४॥ दुर्गतिगर्तपातेन, आर्त्तरौद्राख्य ध्यानके । दुर्ध्याने परिज्ञातव्ये, वक्ष्ये तेषां स्वरूपके ॥३॥ तथा मुहूर्तकालाच्च, पश्चाच्चिन्तनरूपकम् ॥ तिष्ठेद्ध यानान्तरं तत्र, बह्वर्थसंक्रमाच्च वै ॥३६॥ दैर्घकालिकपर्यन्तं, चास्ति ध्यान परम्परा । अतो मुहूर्त कालाच्च, ऊवंध्यानान्तरं मतम्॥३७॥ धर्मध्यानोपकाराय, यथाऽऽसनं प्रयुज्यते । तथा मैत्र्यादिरूपाणां, भावनानां प्रयोगता ॥३८॥ केऽपि पापं न कुर्वन्तु,नो भवेद्दुःखितो जनः ।