________________
[ ३८८ ]
योग
वामपादस्य घुण्ट्यां वै जंघायां मध्यके तथा ॥ २३॥ यथा गच्छेत्तथा कार्यं पश्चात्तथा प्रकारतः ॥ वामपादस्य चाङ्ग ुलेः दक्षिणपादघुटके ||२४|| यथा मध्ये च जंघायां सुप्रयत्नेन मोचनम् । उपस्थेन्द्रियतायाश्च, अण्डकोशस्य दक्षिणे ||२५|| मोचनं सुप्रयत्नेन कृते जालंधरो मतः । तत्क्रमादासने सिद्धिः, सिद्धासनं प्रकीर्त्तितम् ||२६||
॥ कुलकम् ॥
समोसन स्वरूपम् ॥
वामपादं तथानीय, कामं जंधैकतश्च हि ॥ तद्भुण्टिकेच लिंगे च जंघास्थि मध्यके तथा ॥२७ ततो दक्षिणपादं च, आनीय तस्य जंधके । वामपादस्य घुण्ठ्यां वै जंघायाश्चोर्ध्व भागके ॥ २८ यथा स्पृशेत्तथा कार्य, पश्चात्तत्रैव मोचनम् । वामपादांगुलीनां च दक्षिणपादपिण्डके ॥२६॥ जंघायाश्च तथा मध्ये, मोचनं सुखपूर्वकम् । हस्तनेत्रे च सर्वत्र, स्वस्तिकासन सादृशे ॥ ३० ॥ अभिधानं च तस्यैव, समासनत्वनामकम् ।