________________
[६]
योग
ज्ञानादिगौणरहिते न च मुक्तिभावः ॥१६॥
___ पदार्थनिरूपणम्तादृग्जिनेन कथिता द्वयतत्ववत्ता, जीवा जडाश्च सकले जगति प्रसिद्धाः। जीवस्वरूपमिति वै उपयोगवत्वं, ज्ञानादिगौणसरूपं प्रविभावनीयम् ॥१॥ जीवाद्विधा निगदिताः खलु शुद्धबद्धाः, मुक्तस्य मोचन भवाद्वयी तत्ववत्ता, संरोधनिर्जर इति प्रविचारणीये, हिंसासमाश्रवनिरोधकसंवरश्च ॥२॥ ध्यानादिना च परिशाटन-निर्जरा-स्यात्, मुक्तस्यमोचन निमित्तवती हि सा स्यात् । बोधव्यमाश्रवसरूपमिति प्रबोध्यं, हिंसादिसाधननिमित्तककर्म रूपम् ॥३॥ जीवे तडागसरूपे जलकर्मरूपं, नैमित्तता खलु समानयनं ह्यनादेः ।
१ गुण, २ निमित्तरूपा, ३ विचारणीयम् ।