________________
-प्रदीप
भुक्तिः किमथमितिवै तु समादधस्व; स्वास्थ्यायभुक्तिरिति वै भुवनेप्रसिद्धा ॥१२॥ स्वास्थ्यंच येषु भगवत्सु सदैव जातं; रीत्या कया च खलु तेषु प्रकल्पयेस्त्वम् । रुग्णेषु ह्यौषधमिति सुजने प्रसिद्धम् स्वास्थ्ये जनेऽपि भुवने नहि कोऽपि दद्यात् ॥१३॥ खेलादिका' विषयवासनया जनेऽस्ति; सम्पूर्णराग रहिते वद सा कथं स्यात् ।। पामादिरोगसहिते किल कण्डुभावः, तादृग्गदादि विकले नहि तद्विधानम् ॥१४॥ वेद्यच हीदृश सुखं परमात्मभिश्च; कैवल्यबोधविकले श्रुतिगोचरत्वम् । पुर्याः सुखानुभवता न वनाधिवासे, तादृश्युदाहृतिरतः परिमर्शनीया ॥१५॥ शानु-भतिविकले यदि मोक्षभावः पाषाणसदृशजडे स कथं नहि स्यात् ? लोकेऽपि पुत्रजननीषु न वन्ध्यभावः १ केलिक्रीडो, २ रोगादि।