________________
-प्रदीप बन्धेन दुग्धसलिलस्य नयं विचार्य, बन्धस्वरूपमिति वै प्रविधारणीयम् ॥४॥
पदार्थसमासस्वरूपंद्रव्य-भाव-प्रभेदेन, संवरो द्विप्रकारकः । कर्म-पुद्गल-प्रत्तानां, छेदोद्रव्य उदाहृतः ॥६॥ भवहेतुक्रियाणाञ्च, त्यागः स भावसंवरः। परमार्थेन विज्ञयं, मोक्षप्राप्ति निवन्धनम् ॥६॥ सकामाऽकामभेदेन, निर्जराऽपि द्विधा मता। सकामा निर्जरा ज्ञया, संयमिनां प्रधानतः ॥७॥ सोपयोगित्वभावेन, कर्मणां परिशाटनम् । सकामा निर्जरा सा-स्या-दकामा तु निगद्यते ॥८॥ चतुर्गतिकसंसारे, क्षुधादिसहनादितः। अनुपयोग-भावेन, "अकामा” परिजायते ॥६॥ द्रव्य भावप्रभेदेन, आश्रवोऽपि द्विधामतः। सत्कर्मपुद्गलादानं, द्रव्याश्रवो निरूपितः ॥१०॥ परिणामो भवेद्याहा, हिंसादीनां प्रयोगतः। भावाश्रवः स विज्ञयः, आश्रवाऽऽरोधमिच्छता ॥११॥ चतुस्तत्त्वसहायेन, भिन्ना जीवा उदाहृताः ।