________________
[ ३७८ ]
योग
मदीया प्रार्थना चैषा, स्वीकार्या मानसे सदा । अपरा नैव वाञ्छा मे, सत्यं वदामि सर्वथा ॥ २६६
॥ ज्ञानी ॥ रसना लुब्धता हीना, समुद्रममृतायते । सम्पूर्णरस सामग्री, समागच्छति सत्वरम् ॥ ३००॥ प्रेमभावो भवेन्नैव, यत्र कुत्रापि वस्तुनि । रागरूपः स विज्ञेयः, रागो बन्धनकारकः ॥ ३०१॥
॥ अज्ञानी ॥ स्वदेशस्थेन सम्पूर्ण विदेशि नाटकादीनाम् । द्रष्टुमिच्छा च स्वान्ते चेदाज्ञापय तदा प्रभो ॥ ३०२ तत्रत्य सर्ववस्तूनां करोमि उपढौकनम् । मदीया प्रार्थना सा वै स्वीकार्या प्रेमभावतः ॥ ३०३ ॥ ज्ञानी ॥ सर्वस्तुषु निर्लिप्त नेत्रे च सर्वदा मम । दर्शने कौतुकं नैव, केषांचिदपि वस्तूनाम् ॥ ३०४॥ सर्वनाटकरूपं हि संसारे प्रतिभासते । अपरनाटकानां वै, दर्शनेच्छा कथं भवेत् ॥ ३०५ ॥