SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [३७६ माता पिता च भ्रात्रादि, भगिनी कलत्रादीनाम् । जीवेनानन्तवारं हि, संसारे वसता कृतम् ॥३०६॥ दृष्टं तज्ज्ञानिना सर्व, एकैकानन्तवारकम् । पुत्रः पितृ तया चैव, पिता पुत्रस्वरूपतः ॥३०७॥ माता कलत्र संजाता, कलत्रं मातृरूपताम् । स्वकीयं नाटकं त्यक्त्वा,पश्यामि चापरं कथम्॥३०८ अतः सर्वं च तत्त्यक्त्वा, द्रक्ष्यामि स्वगुणान् सदा । पुद्गलद्रव्यरूपाणां, दर्शने का विडम्बना ॥३०॥ ॥ अज्ञानी ॥ ग्रीष्मतापार्दितेनैव, देहे पीडा प्रजायते । तदा तत्परिहाराय, वायु करोमि शीतलम् ॥३१०॥ ॥ज्ञानी॥ भोगविलासशून्या मे, त्वचा भवति सर्वदा । सर्वदा शीतला सैव,वायोश्च न प्रयोजनम् ॥३११॥ मिथ्यावायुश्च सर्वत्र, वाति वै सर्वजन्तुषु । श्रद्धाधनं च सर्वेषां, लात्वा नश्यति सत्वरम् ॥३१२॥ अन्यत्सर्व धनं चैव, मीलति सर्वजन्तूनाम् । श्रद्धाधनं तु सर्वज्ञधर्म विना न प्राप्यते ॥३१३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy