SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ [ ३७६] योगध्यानभेदप्रभेदानां, रूपं योगांगसप्तमे । विस्तृतरूप भावेन, वक्ष्यते शुद्धदृष्टितः ॥२८॥ बाह्याभ्यन्तरभेदेन, तपसा मलसंक्षयः। ततः कायेन्द्रियादीनां, स्वाधीनता प्रजायते ॥२८॥ ईश्वर द्रव्यपर्यायगुणेषु योगयोजनम् । सर्वथा चिन्तनं तेषु, ईश्वर प्रणिधानता ॥२८॥ ईश्वरप्रणिधानेन, चित्तस्य सुसमाधिता। प्रसन्नमानसे चैव, किं किं कार्यं न सिध्यति ॥२८६॥ चतुर्निक्षेपरूपेषु ईशेषु च पुनः पुनः । प्रणिधानं च कर्त्तव्यं, भावशुद्धिं चिकोर्षता ॥२८॥ ईशास्य लाषिणी नेत्रे, ईशोपास्ति करौ मम । तग्दुणश्रोतृणी श्रोत्रे, भवतो मम सर्वदा ॥२८॥ . पूर्वोक्त नियमाश्चैव, पालनीयाश्च सर्वथा । तान् विना च कथं योगमार्गाग्रे च प्रवीणता ॥२८६ महाव्रतं धृतं येन, नियमे तस्य योग्यता । तां योग्यतां च संपाद्य,अग्रे सुखेन गम्यताम् ॥२६० नितरां संयमाश्चैव, नियमाः परिकीर्तिताः । तत्पतिपादनेनैव, द्वितीयांगं निरूपितम् ॥२६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy