________________
[३७४]
योगशास्त्रोक्तविधिपूर्वेणे, अन्नवसनकादीनाम् । संसक्तकादि वस्तूनां, त्यागे व्युत्सर्गता किल ॥२६६॥ द्विविधं तच्च विज्ञेयं, बाह्याभ्यन्तर भेदतः । तस्य शुद्धस्वरूपं च, कथ्यते जैनशासनात् ॥२६७॥ आयुण्यकर्मणां नाशं, समीपे च समागतम् । ज्ञात्वौधिकौपग्राह्यानामुपाधि विग्रहादीनाम् ॥२६८॥ बाह्यवस्तुस्वरूपाणां त्याजने बाह्यरूपकम् । कामक्रोधमदानां च हर्षलोभादिवस्तूनाम् ॥२६॥ त्यागाभ्यन्तरो ज्ञेयः व्युत्सर्गः शास्त्रयोगतः। प्रकारान्तररूपेण, द्वौ भेदौ चापि कीर्तितौ ॥२७० द्रव्यभावस्वरूपौ च, सम्मतौ जैनशासने । द्रव्यव्युत्सर्गरूपस्य, चतुर्भेदाः प्रकीर्तिताः ॥२७१॥ जिनकल्पप्रतिज्ञाते, गच्छस्य परित्यागतः। गणव्युत्सर्गता ज्ञेया, द्रव्यतः परिकीर्तिता ॥२७२॥ अनशनादि कर्तव्ये, कायचेष्टा सुत्यागतः। कायव्युत्सर्गता ज्ञेया, धर्मभावप्रवृद्धितः ॥२७३॥ जिनकल्पप्रतिज्ञाते, सर्वज्ञाऽऽज्ञानुसारतः । उपधीनां च संत्यागे, व्युत्सर्ग उपधेर्मतः ॥२७४॥