________________
Awr
[३७२]
योगसम्यग्दर्शनज्ञानादि, गुणाधिकेषु भावतः। अभ्युत्थानाऽऽसनानां च प्रदाने वन्दनादीनाम्॥२४८ भक्तिभावे न कर्तव्ये विनय उपचारतः। वैयावृत्यस्वरूपं च, शास्त्रोक्तं प्रतिपाद्यते ॥२४६॥ आचारप्रदानेन, षट् त्रिंशद्गुणाऽयुतः। आचार्य कथितः शास्त्रे,वैयावृत्त्यंच भावतः ॥२५० एकादशांगशास्त्राणामुपाङ्गानां तथैव च । प्रकीर्णादिकशास्त्राणां पाठने पठने तथा ॥२५१॥ उपाध्यायः समाख्यातः, यद्गुणाः पंचविशतिः । उपाध्यायश्च तद्यु क्तः, कथितो जैनशासने ॥२५२॥ उग्रतपः प्रकर्त्तव्ये, तपस्वी कथितो मतः। क्षमादिगुणयुक्तश्च, सर्वत्रैव निरीहतः ॥ २५३ ॥ चारित्राचारशिक्षाणां, प्राप्तच्छा शुभयोगतः। येषां जाता च ते सर्वे, शैक्षकाः परिकीर्तिताः ॥२५४ नवदीक्षितशिष्याणां, चारित्राचारदानतः । संपादने च ज्ञानादौ, शिष्यश्च भावतो मतः ॥२५॥ रोगपीडित साधुश्च, सग्लानः परिकीर्तितः । दीक्षाचार्यस्य चैकस्य, शिष्याणां परिवारकः ॥२५६