________________
mmmmmmmmmmmmmmm
-प्रदीप
:[३७१] उपस्थापनकाख्ये च प्रायश्चित्ते च सर्वथा । तयोरन्तरभावेन पृथग् नैव तु गण्यते ॥२३६॥ अष्टकर्मविनाशे च आभ्यन्तरं निमित्तकम् । विनयाख्यं च मन्तव्यं तपो विनयकांक्षिणा ॥२४० तकै चतुर्विधं ज्ञेयं ज्ञानादीनां विभेदतः। तेषां स्वरूपकं चैव कथ्यते सुखहेतवे ॥२४१॥ बहुमानस्य पूर्वेण ज्ञानेन सुकृतार्जनम् । नवीन कर्मणां बन्धः नो भवेद्वर्तनं तथा ॥२४२॥ तादृशज्ञानशिक्षायाः अभ्यासः सर्वथा मतः । स ज्ञानविनयो ज्ञेयः ज्ञानविनयमिच्छता ॥२४३॥ यथार्थतत्त्वरूपाणां सार्वकथित वस्तूनाम् । श्रद्धातश्चल्यमानं न शङ्कायु द्भवने सति ॥२४४॥ कृत्वा संशोधनं चैव, निःशङ्कितादिमान् भवेत् । एतादृक्कार्यकर्त्तव्ये दर्शनविनयः कृतः ॥२४॥ सामायिकादिपञ्चानां, चारित्राणां च मध्यके । यत्र कुत्रापि चारित्रे, समाधिर्मानसे भवेत् ॥२४६॥ तस्यापि विधिपूर्वेण, पालन शुभभावतः। सत्या प्ररूपणा तत्र, चारित्रविनये मता ॥२४७॥