________________
[३६८]
योग
अनालस्यं क्रिया कार्ये प्रमादः परिणश्यति । अप्रमत्तत्वभावोहि आगच्छति च तत्क्षणे ॥२१२॥ इन्द्रियोन्मादताभावः मनः स्थैर्यप्रभावतः। मनोऽपि स्थिरतां याति तपो वैराग्यभावतः ॥२१३॥ कर्मदहनसामर्थ्यमत्यन्तं यत्र विद्यते। आभ्यन्तरतपस्तच्च कीर्तितं जैनशासने ॥२१४॥ षड्विधं तच्च विज्ञेयं प्रायश्चित्तादि भेदतः। क्रमेण तस्य सारूप्यं कथ्यते शुद्धभावतः ॥२१॥ यानि व्रतानि साधूनां गृहीतानि च सन्निधौ। तत्र प्रमादद्वारा हि दोषाणामुद्भवो भवेत् ॥२१६॥ तेषां संशोधनं येन प्रकारेणैव तन्यते । प्रायश्चित्तं च तज्ज्ञेयं जैनशास्त्रानुसारतः ॥२१॥ तच्च दशविधं ज्ञेयं आलोचनादि भेदतः। तेषामपिस्वरूपं वै कथ्यते जैनशासनात् ॥२१॥ भावविशुद्धिपूर्वेण गुरूणां च समीपके । निवेदनं हि दोषाणामालोचनं च तद्भवेत् ॥२१॥ कृत पापस्य पश्चात्तापेन निर्वतनं ततः। यथा वै नव्यदोषाणां न लग्ने सावधानता ॥२२०॥