________________
- प्रदीप
तथापि तन्न स्वान्तेहि धार्यते
चिकीर्षता ॥ २०३ ॥ विगण्यते ।
तथात्र भावरोगाणां दृरीकतु उपवासादि कर्त्तव्ये नैव दुःखं अतो न दुःखरूपं तत् किन्तु औषधरूपकम् ॥ २०४॥ अत्र समाधिरूपं तद्धर्मध्याननिबन्धनम् । दुःखलेशो भवेन्नैव महाशान्तिविधायकम् ॥२०५॥ यथेष्टकार्यसंसिद्धौ दुःखं वणिग् न मन्यते । तथात्र शिवसंसिद्धौ कथं दुःखं तु मन्यते ॥ २०६॥ तपः कर्मोदयं नैव इति दृढं प्रमन्यताम् । कर्मोदयफलं चैव संसारभ्रमणं मतम् ॥२०७॥ कषायोदय भावो हि मोक्षस्य प्रतिबन्धकः तेषां क्षयस्वरूपं तत् कारणं तस्य कथ्यते ॥२०८॥ तपसा कर्मवैनाशः तत् कथं प्रतिबन्धकम् । प्रतिबन्धकरूपं हि कारणं नैव कथ्यते ॥ २०६ ॥ विशिष्टज्ञान संवेग शमसारमिदं तपः । क्षायोपशमिकं ज्ञ ेयं इति दृढ़ सुनिश्चितम् ॥ २१०॥ बाह्यतपो विधानेन शरीरे लाघवं भजेत् । धातूनां शोषणे - नैव नेन्द्रियोन्मादता पुनः ॥२११॥
1
[ ३६७ ]
सुखमिच्छता ।