________________
[३६६]
योगभाव्यारोग्यस्य सद्भावे, तद् :खं नैव मन्यते । तथाऽत्र कर्मरोगाणां, प्रतिकारे च भाव्यताम् ।१९४॥ महौषधं तपो रूपमत्रैव परिचिन्त्यताम् । दुःखानामवकाशो न, धर्मध्यानस्य वृद्धिता ॥१९॥ सद्भावनां विना नैव, तपः कत्तुच शक्यते । पूर्वपुण्योदयेनैव, तपसि भावना भवेत् ॥१९६॥ अनन्तकालचक्राणां, संसारे भ्रान्तिकारणम् । कर्मजन्यं च दुःखं तदारौिद्रादि रूपकम् ॥१६॥ तच्च तपः प्रभावेन, सर्वथा प्रणिनश्यति । अव्याषाधसुखं चैव, प्राप्यते तेन सर्वदा ॥ १९८॥ भावरोगविनाशेष, समर्थं कारणं तपः। तत् कथं दुःखरूपं वै, मन्यते सुखमिच्छता ।१६६। देहारोग्यं च तेनैव, जायते दृढ़योगतः । असाध्यं संसृतौ नास्ति, यत्तपसान सिध्यति २०० यथैव रोगिणां रोगान्, दूरीकत्तु चिकोर्षता। कटुकौषधपाने च, कर्तव्ये पीडनं भवेत् ॥२०१॥ व्याधीनां चैव केषाश्चिच्छस्त्रतः च्छेदनादिना । 'प्रतिकारे च कर्त्तव्ये, दुःखं तेषां च जायते ॥२०२॥