________________
- प्रदीप
[ ३६५ ]
विशेषदुःख सोढव्ये, तपस्वी च ततोऽधिकः । एतादृशि च मन्तव्ये, अत्यन्त दुःखि नारकाः १८६ महातपस्विनस्तेऽपि, आत रौद्रादि संयुताः । शान्तिसाम्राज्य सद्भावाः, योगिनश्चातपस्विनः १८७ इति विचित्र भावो हि, जगति सर्वदा भवेत् । अतो विचार्य वक्तव्यं भवभीरुजनेन वै ॥१८८॥
॥ उत्तरपक्षः ॥
तपो दुःखस्वरूपं नो, जिनेन्द्रशासने मतम् । आगमानुमतेनैव तपोरूपं निगद्यते ॥ १८६॥ तपस्तदेव कर्त्तव्यं दुर्ध्यानं येन नो भवेत् । इन्द्रियाणां च नो हानिः, योगानां वै तथैव च १६० देहपीड़ा भवेन्नैव, धर्मध्यानस्य वृद्धिता । यतो येनैव जायेत, तत्तपो जैनशासने ॥ १६१ ॥
"
केशलोचादिकार्याणामुपवासादिवस्तूनाम् । अतः को बुद्धिशाली वै, तपसि दुःखतां वदेत् १९२ यथैव रोगिणां चैव, रोगाणां प्रतिकारके । औषधशस्त्रप्रायोग्ये, किञ्चिद्दुःखं च जायते ॥ १६३॥