________________
[३६४]
योगलोचादिकं च सर्व वै, कष्टं तत्र समीक्ष्यताम् । तत्सर्व चैव ज्ञातव्यं, कायक्लेशेषु सम्मतम् ॥१७॥ शून्ये गृहे च देवालये च पर्वतगहरे। इत्यादि शुभस्थाने वै, शान्तिभावविधायके ।१७६। ज्ञान दर्शन चारित्र तपो वीर्य प्रवृद्धये । संकोचित शरीरेण, स्थातव्ये लीनता मता १८०
॥बाह्यतपसि पूर्वपक्षः॥ दुःखरूपोपवासादि, तपो वक्तुं न शक्यते । मर्मोदयस्वरूपं वै वेदनीये च सम्मतम् ॥ १८१॥ मोक्षस्य कारणं नैव, अतस्तपो न कथ्यते । औदयिकस्वरूपं च, असाता जनक मतम् ।१८२॥ यथा गोमहिषीणां वै, क्षुधादि द्वारतो दुःखम् । तथोपवासकर्तव्ये नृणां क्षुधादितस्तथा ॥१८॥ वेदनीयोदयेनैव, तादृशी दुःखता भवेत् । बाह्य तपः कथं तत्स्याच्छुभभावेन चिन्त्यताम्।१८४ उपवासादि द्वारेण, उत्पन्नां दुःखभावनाम् । तत् सहने तपास्वी स्यादपराद्ध परेण किम् १८॥