________________
-प्रदीप
.. [३६६ ] तत्प्रतिक्रमणं चैव, कर्त्तव्यं शुभभावतः । तदुभयस्य सारूप्यं, लक्षणात्प्रतिपाद्यते ॥२२१॥ गुरूणां निकटे दोषप्रकाशपूर्वकं यथा । कृतपापनिवृत्यर्थ, मिथ्या दुष्कृतयाचना ॥२२२॥ तदुभयाभिधानं च प्रायश्चित्तं निगद्यते । विवेकनामधेयं च प्रायश्चितं ततः परम् ॥२२३।। अन्नपानोपधीनां च शय्या-साधन वस्तूनाम् । शुद्धाशुद्धविचारो वै प्रायश्चितं विवेककम् ॥२२४॥ आहोस्विदन्नपानानामकल्प्यानां प्रमादतः। कृतं चेद्ग्रहणं तेषां कार्यस्त्यागश्च शीघ्रतः॥२२॥ अकल्प्यान्नकादीनामौपकरणवस्तूनाम् । उपयोगेन सञ्चिन्त्य निरोधः प्रविधीयताम् ॥२२६॥ पुनःहिक वाचां च व्यपाराणां च सर्वथा । व्युत्सर्गे च कृते चैव प्रायश्चित्तं हि सम्मतम् ॥२२७॥ महाव्रते प्रतिज्ञाते दिनादिकेऽमुके तथा । मासे वर्षे च सञ्जाते तेषां मध्येऽमुकस्य च ॥२२८॥ अमुकदिनमासानां छेदनेच्छेदनाभिधम् । प्रायश्चित्तं च विज्ञेयं प्रायश्चित्तं चिकीर्षता ॥२२६॥