________________
wwwwwwwwwwwwwww
-प्रदोप
[३५६] धर्मकथा तथाऽऽम्नाय, स्वरूपं कथ्यते ततः । आगमस्यानुसारेण, काल्पनिकं न विद्यते ॥१३॥ कालिकोत्कालिकानां च, सूत्राणां पाठनं सदा । शिष्याध्यापनता काले, वाचना परिकीर्तिता ॥१३६॥ संशयविनिवृत्त्यर्थं, सूत्रार्थपरिपृच्छनम् । विशिष्टज्ञानलाभाय, पृच्छना कथिता जिनैः॥१३७॥ सत्पूर्वाधीत शास्त्राणां, तथैवाध्ययनादीनाम् । अर्थस्य मानसेऽभ्यासः, अनुप्रेक्षा मता सताम् ।१३८। हस्वदीर्घप्लुतानां च, उदात्तादि स्वरूपिणाम् । अनुनासिकभेदानां, विज्ञातव्यं स्वरूपकम् ॥१३६॥ पश्चाच्च घोषशुद्ध या वै, परावर्तिश्च सर्वदा । पुनरावर्तरुपो वै, आम्नायः परिभाषितः ॥१४०॥ श्रुतचारित्रधर्मी द्वौ, ज्ञात्वा रहस्य ज्ञापनम् । भव्यजीवप्रवोधाय, धर्मकथा सा कथ्यते ॥१४॥ आत्मप्रदेशलग्नानां, कर्मणां परिशाटनम् । निर्जरा सैव विज्ञेया, स्वाध्यायात्परिजायते ॥१४२॥ स्वाध्यायः सर्वदा कायः, घोषशुद्धया च पूर्वकम् । लवलेश प्रमादानां, नावकाशः प्रदीयताम् ॥१४३॥