________________
प्रदीप
..[३५३] मुखे क्षिप्त्वा च चुम्बन्ति,कुर्वन्ति तादृशी क्रियाम् । तां दृष्ट्वा योगिनां चैव,जुगुप्सा परिजायते ॥४॥ उत्तरोत्तरचेष्टा वै, जुगुप्सा कारिका मता। तथैव स्वाङ्गदृष्टव्ये, जुगुप्सा किं न जायते ॥८॥ शौचात्स्वांग जुगुप्सा वै, स्वान्तं ततो निवर्तते । अशुचिविनिवृत्तो च, योगांगेषु प्रवर्तते ॥८६॥ जुगुप्साऽसत्य वक्तव्ये, जायते सत्यवादिनाम् । कर्णकटुकरं नित्यं, असत्यवचनं मतम् ॥ ८७ ॥ आर्तरौद्रादिध्यातारं, दृष्ट्वा च धर्मध्यानिनः । जुगुप्सा तत्र जायेत, अतस्तन्नैव सुन्दरम् ॥८॥ अतः शौचत्वदृष्टणां, योगिनां चैव सर्वदा । नैव केवल देहेषु, जुगुप्सा सर्ववस्तुषु ॥८६॥ मनोवाकाय योगेषु, मिथ्यात्वाविरतौ तथा। कषायोन्माद भावेषु,जुगुप्सा च सदा भजेत् ॥१०॥ सम्यक्त्व परिपाकेन, मिथ्यात्वं परित्यज्यताम् । संयमपालनेनैव, अविरतौ घृणां भजेत् ॥११॥ परपरिणतेस्त्यागात्स्वस्यां च लीनतां नयेत् । संसारभ्रान्तिनैमिते, कषाये शौचतां व्रजेत् ॥१२॥