________________
योग
[३५२] वाह्याडम्वरनिर्मुक्ताः, मन्त्रतन्त्रेषु नैव च । लोकरञ्जनकार्येष, रक्ताश्च ये न सर्वदा ॥७६॥ ते महापुरुषा ज्ञेयाः, स्वात्मसाधनतत्पराः। दोषदृष्टिविनिर्मुक्ताः, सर्वत्र समदर्शिनः ॥७॥ शौचदृष्टिविधानेन, अशौचपरिहारतः । मैत्र्यादि भावितात्मावै, मोक्षाधिकारतां भजेत्॥७॥ मनसो निग्रहो नित्यं,मुहुः स्वाध्याययोगतः। वैराग्येनैव कर्तव्यः, मनः शीघ्र वशं भवेत् ॥७॥ अध्यात्मचिन्तनेनैव, बहिरात्मपहिम खः । विकथा परित्यागेन, मनः शीघ्र वशं भवेत् ॥८॥
शौच फल निरूपणम्
कायशौच प्रसंगेन, जुगुप्सा तत्र जायते । रसामृगादि धातूनां; दर्शने कस्य नो भवेत् ॥८॥ यथा बालः स्वभावेन, शकृच्च परिगून्थति । युवानस्तादृशं दृष्ट्वा, जुगुप्सां च करोति वै॥८॥ दारासक्तांश्च यूनो वै, दृष्ट्वा हसन्ति मध्यमाः । तेऽपि स्वकीय पुत्राणाम् ,शुचिभूतत्वहस्तकम् ॥८॥