________________
-प्रदीप
[३५१ } अतः सर्व प्रकारेण, स्थैर्य च मानसे भजेत्॥६७॥ अन्यत्र गमने जाते, कर्मवन्धं विना नहि । आगच्छति च तत्पार्वे,अतः स्वान्ते विचार्यताम्॥६॥ धूर्त च सर्वदा ज्ञेयं, सद्व्यवहृति नैव च । नपुंसकं च सर्वत्र, वायुवद्गतिकं सदा ॥६६॥ पुंसि तस्याधिकारो न, दारेषु न कदाचन । स्वजातीनां स्वजातीये, अधिकारश्च शोभते॥७॥ ततो ज्ञाने च ध्याने च, वैराग्ये चाधिकारता। रत्नत्रये च सर्वत्र, तपश्चर्ये तथैवच ॥७१॥ अतोऽन्यत्रापि गन्तव्ये, हास्यास्पदं महद्भवेत् । संसारे चाधिका भ्रान्तिः, सुखलेशो न किश्चन।।७२॥ रत्नत्रयादिकंसर्व, नपुसकं च विद्यते। अन्यत्सर्व परित्यज्य, स्वजाति सङ्गम कुरु ॥७३॥ सप्तमादिगुणारूढाः, ये विद्यन्ते च साधवः । तेषां तत्राधिकारः, स्यादन्येषां न कदाचन ॥७॥ वदन्ति साधितं, केचिदमुकर्योगिभिर्मनः । अघुना परिदृश्येत, तच साहसिकं वचः ॥७॥
१-भ्रमण ।