________________
-प्रदोप
[३४७] यस्य योग्यं च यद् व्यं, तत्तेनैव विधीयताम् । . गृहिणां बाह्यसन्पत्तिः; सदैवारम्भजामता ॥३२॥ अत ओरम्भ दोषेण, सञ्चितं कर्मजालकम् । तत्पापस्य विशुद्ध्यर्थ; द्रव्यस्नानेन पूजनम् ॥३३॥ वस्त्रेषु कालिमा लग्ना, तत्कालेनैव क्षाल्यते । बहुकालीन सञ्जाते, शोधनं दुष्करं तदा ॥३४॥ प्रतिदिनं प्रक्षालेन, शुद्धं वस्त्रं च दृश्यते । तथैवात्र प्रकर्त्तव्ये, शीघ्र शुद्ध प्रजन्यते ॥३५॥ आत्मनि चैव ज्ञातव्यं; प्रत्यहं भावशौचक । आरम्भदोषशुद्धयर्थम्, द्रव्यपूजाविधापनम् ॥३६॥ कायिकं द्विविधं शौचं, स्पष्टरूपेण दर्शितम् । वाचिकमपि द्वैविध्यं, प्रसङ्गात्परिदर्श्यते ॥३७॥ वाग्द्रव्यवर्गणा शुद्धा, भाषा रूपेण जायते । तदा तद् व्यतो ज्ञेयं, वाक्छौचं प्रचिकीर्षता ॥३८॥ लोकबोधनकार्याय, व्यवहारप्रसिद्धये । वाग् निष्पाद्य चवक्तव्ये, बाह्या वाक्छौचतामता॥३६। शुद्धव्यवहृतौ ज्ञेया, एषा वै बाह्य शौचता । अशुद्धव्यवहारेतु, शौचत्वं नैव गद्यते ॥४०॥