________________
योग
[३४६ ] शुद्धप च संस्थाप्य, परिमितजलेन वै। तत्रोपविश्यकर्त्तव्यं, स्नानं च गृहमेधिना ॥२४॥ अतोजलस्थ-जीवानां, रक्षां कत्तुं चिकीर्षता। भूमिनिरीक्षणापूर्व, द्रव्यशौचविधापनम् ॥२५॥
भावशौच निरूपणम्
भिन्नता देहजीवानां, ज्ञातव्या ज्ञानिना सदा । शुद्धप्रकाशरूपोऽयं, निश्चयनयतः सदा ॥२६॥ व्यवहारेण नो शुद्धः, कर्मणां बन्ध योगतः । निश्चयव्यवहारेण, ज्ञातव्योऽपि च सर्वदा ॥२७॥ अत्यन्तशुचिदेहः, स्यान्मलमूत्रेण सम्भृतः । सप्तधातुप्रपूर्णश्च, अतो मलीनरूपकः ॥२८॥ दयाम्भसा कृतं स्नानं, जीवेनात्म प्रदेशके। कर्ममलविलीनाथ, स्नानं तत् भावतोमतम् ॥२६॥ योगिनामुत्तमं ज्ञेय, महिंसा धर्मपोषकम् । हिंसा तो विनिवृत्यर्थ, वीतरागेण कीर्तितम् ॥३०॥ नमनादिप्रयोगेन, द्रव्यतः कायिकं मतम् । द्विविधमपि सर्वेषां, गृहिणां योगिनां भवेत् ॥३१॥