________________
- प्रदीप
[ ३४५]
अतोऽपवित्र देहस्य, देवपूजाविधान के । क्षणिका शुद्धि बुध्यर्थमादौ द्रव्येण शौचता ॥१५॥ द्वितीयं सुतकान्ते स्या, द्वाह्यमलोपदिग्धके । तृतीयं प्रणिगद्यते ॥ १६ ॥
देहेतुमलशुद्ध्यर्थं
गृहिणां त्रितयं स्नानं द्रव्यस्नान स्वरूपकम् । तत्रापि सर्वदा कार्य, यत्नपूर्वं च शौचकम् ॥१७॥ अनेकजलजन्तूनां विनाशस्तत्र जायते । बी विराधना ज्ञेया, आरम्भि गृहिणां तथा ॥१८॥ अगालित – जलानां वै, व्यापृतौ यतना नहि । विना यत्न क्रिया सर्वा, आश्रवसाधिकामता ॥ १६ ॥ अतो यत्त्रोऽपि कर्त्तव्यः, सर्वथा सुखमिच्छता । उपयोगेन धर्मः, स्यादन्यत्राधर्मता खलु ॥ २० ॥ जीव कुलेन या रिक्ता सा भूमिस्नानयोग्यका । नदी तडाग कूपे नो, स्नातुं धर्मिषु युज्यते ॥ २१॥ एकस्मिन् जलबिन्दौ ये, सन्ति जीवा ह्यसङख्यका । यदि सर्षपमानास्ते, जम्बुदोपे न मान्तिवै ॥ २२॥ क्षालनीयमतो नीरं, पश्चात्स्नानविधापनम् । दृढ़गलन केनापि, जीवानां शोधनं मुहुः ॥२३॥