________________
[३४४]
योग. शौचस्वरूप वर्णनम् बाह्याभ्यन्तर पावित्र्यं, तच्छौचं परिभाषितम् । मनोवाकायतः शुद्धं, तदपि द्विविधंमतम् ॥७॥
द्रब्य शौचनिरूपणम् जलेन देह देहस्य, शुद्धिस्तु क्षणिका मता। प्रायोऽन्यमलरोधाय, शक्ता पूजा क्षणेतुसा ॥८॥ स्नानेन दैशिकी शुद्धिः, त्वगुपरिप्रक्षालनात् । सर्वदा न शरीरस्य, शुद्धिः कुत्रापि जायते ॥६॥ मदिरा घटवद्दे हे, शुद्धिर्भो वद कीदृशी। पौरनिर्धमनं चैव, शरीरं सर्वथाऽशुचि ॥ १० ॥ शुक्र शोणित संव्याप्त मात्राऽऽत्ताहारवर्धितम् । मूलोत्तरनिमित्तानाम,शुचितश्च नो शुचि ॥ ११ ॥ अशुचि नव द्वारेण, प्रतिक्षणं वहेत्सदा । तत्र शुचित्वसद्भावः, महामोहस्य सेवनात् ॥१२॥ बाह्याभ्यान्तरदेशानां, देहे यदि विपर्यता । दैव योगेन सर्वत्र, तदा कोऽपि स्पृशेन्नहि ॥१३॥ अतोऽशुचिस्वरूपे च,पावित्र्यं तत्र कीदृशम् । महाशयेन वक्तव्यं, मन्यते च कथं त्वया ॥१४॥