SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ॐ नमो नमः श्रीप्रभु धर्म सूरये छ ॥ योगप्रदीपः ॥ नियम स्वरूपवर्णनम् परमानन्दयुग्देवं, परमशान्तिदं सदा। नमामिवर्धमानं तं, धर्मसूरि गुरुं तथा ॥१॥ योगांगेऽपि द्वितीयाङ्ग, वर्ण्यते नियमाभिधम् । महाव्रतविशुद्ध्यर्थ, तदपि-परिकीर्तितम् ॥ २॥ योगांगे नियमाश्चैव, यमपुष्टिकरामताः । महाव्रतं विना तेषां, पालनं दुष्करं मतम् ॥ ३ ॥ योगश्रेणिसमारोहं, यदिकर्तुं चिकीर्षति । तदातु नियमाः स्वान्ते,पालनीयास्च सर्वथा ॥ ४॥ तेऽपि पश्चप्रविख्याताः, योगांगे च द्वितीयके । शौचसन्तोषरूपौ द्वौ, तपः स्वाध्यायके तथा ॥५॥ ईश्वरप्रणिधानं च, पञ्चमं तत्र कीर्तितम् । स्वरूपं कथ्यते तेषां, पञ्चानां च यथाक्रमम् ॥ ६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy