________________
[ ३४० ]
योग
बृ
इङ्गला वामपार्श्वे, स्थात्पिङ्गला दक्षिणेमता । नाशापुढे चरन्ती च मध्ये ज्ञेया सुषुम्नका ॥ ४५५ ॥ वामकर्णे यशस्विनी, पुष्पा मता च दक्षिणे । अलम्बुसा मुखस्थाने, लिङ्गस्थानं न मन्यते ॥ ४५६ ॥ गुदायां शङ्खिनी ज्ञेया, दिग्नाडिका च देवतः । प्राणाश्रिताश्च ज्ञातव्याः, कथ्यन्ते वातसंश्रिताः ॥ ४५७ प्राणापानौ समानश्च, उदानव्यानकौ तथा । नागा किरकराक्रम, देवदत्ता धनञ्जयी ॥ ४५८ || प्राणादि पञ्चवायूनां स्वरूपं नाममात्रतः । नागादिपञ्जनाडीनां, स्वरूपं च प्रकाश्यते ॥ ४५६ ॥ नागनाडी प्रकाशेन, उद्गारः परिजायते । उदद्यात्कूर्मनाडीनां, चित्तमुन्मीलितं भवेत् ॥४६०॥ छींकोत्पत्तिः किर्करातः, प्रकाशो देवदत्ततः । जम्भादिकं च सुस्थैर्य, जायते देवतः पुनः ॥ ४६१॥ यदा स्वर बहिश्चारः आगत्य कोऽपि पृच्छति । सिद्धिश्च तस्य कार्यस्य, कदापि नैव जायते ॥ ४६२॥
१. - देवेषु ।