SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [३३६] विचारेऽभ्यन्तरे भावे, मनोवायुःस्थिरो भवेत् । तथा नाभिसरोजे च, पूरकेण समीयते ॥४४६॥ नाभिश्वासं च सम्भृत्य,ऊर्ध्वं तु रैचके खलु। अजपाजापता तत्र, कोऽपि जानाति सजनः॥४४७॥ उत्तिष्ठति स्वरोऽहं च, सोकारे परिमीयते। अजपा जापतायाश्च, रहस्यं दर्शितंमया ॥४४८॥ देहमध्येऽधिका नाड्यः, सन्ति विस्तृतरूपतः । पिण्डरूप प्रदृष्ट्यर्थं, विचारोऽपि महान्मतः ॥४४६॥ विस्तारो वटशखाव, जायते नाभिकेन्द्रतः । ज्ञेयो वह्निःप्रभेदोऽपि,स्वरोदयस्य शास्त्रतः॥४५०॥ नागाकारमध्यर्धच, तत्र द्विवलयं मतम् । कुण्डलि नाडितो नाभौ,निवासः क्रियते सदा॥४५१ ता ऊर्ध्व गामिन्यश्चैव, नायो दश शरीरके । द्वेतिरश्चिनी नाड्यौ, चतुर्विंशतिरङ्कतः ॥४५२॥ दशवायु प्रवाहिन्यः, मनसो दशमुख्यतः। इङ्गलापिङ्गले चैव, गन्धारिकासुषुम्नके ॥४५३॥ हस्तजिह्वा च पुष्पा वै, यशस्विनी अलम्बुसा। शङ्खिनी दश विज्ञेया,आसां स्थानं विचार्यते॥४५४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy