________________
-प्रदीप
[ ३४१ ]
आन्तरस्वरसञ्चारे, आगत्य कोऽपि पृच्छति । कोट्युपाये च तस्यैव, कार्यसिद्धिर्न जायते ॥ ४६३॥ आम्नाय क्रमभावेन, स्वरध्यानं विधीयताम् । सम्यक्त्वयुक्तविज्ञेन, शिवसुखं च प्राप्यते ॥ ४६४ स्वर विचारः संक्षेपा, त्कथितो मन्दबुद्धिना । स्खलना कापि दृश्येत, सूचनीया च प्रेमतः ॥४६५॥ सबुद्ध्या सूचनाकार्या, स्वीक्रियते मया सदा । मन्यते चोपकारश्च अत्र परत्र सर्वथा ॥ ४६६॥
॥ इति शास्त्रविशारद जगदुत्पूज्य जंगम युग प्रधान सकलागम रहस्यवेदि शासन सम्राट्सूरि चक्रचक्रवर्त्ति वाराणसी पालीताणा मधुमती म्हेसाणमोहमयी गुरुकुलपाठशाला संस्थापक वीरमगामपाटडी आग्राप्रभृत्यनेकग्राम पुस्तकालय संस्थापक अनेक बोर्डीङ्ग संस्थापकानेक जोर्णोद्धार कारक साहित्यधर्मोद्धारक भारत यूरोपफ्रांस इटली जर्मनी प्रमृत्यनेक देशवासि जन
१ – स ।