________________
-प्रदीप
[३३७] एवं रीत्या च वर्षाणां, प्रमाणमपि कार्यताम् । पश्चाद्मनसि धर्तव्य,कति मे निष्फला गताः॥४२८। षोडशाधिकतायुक्तं, शतवर्षच जीवन । उत्कृष्टं प्रायिकं चैत, त्सोपक्रमं च तन्मतम्॥४२६॥ अध्यवसायनैमित्त, शस्त्रगर्तादिकं तथा। श्वासोच्छवासश्च,रोगाश्चस्पर्शश्चायुर्विनाशकाः४३० स्तोकश्वासश्च स्पर्शश्च, यत्र तत्र न हासता। अधिकश्वाससञ्चारे, आयुश्च परिक्षीयते ॥४३१॥ समाधौ च चतुःश्वासाः, शुभध्याने च षण्मताः। दश तृष्णा विशुन्ये च द्वादशजल्पने मताः ॥४३२॥ षोडशशयने क्षीणाः, गन्तव्ये द्विश्च विंशतिः। स्त्रीसम्भोगेचट्त्रिंशत् श्वासा नश्यन्तितत्र वौ४३३ अधिकाः स्वल्पकाले च, नश्यन्ति प्राणवायवः । आयुक्षयश्च शक्तीना, रोगाश्चनाशकामताः॥४३४॥ अधिकं नैव वक्तव्यं, शयनं चाधिकं नहि । अतिशीघ्र न गन्तव्यं,विवेको मानसे यदा॥४३॥ मनो वाय्वोर्गतिश्चैव, ज्ञाता येन महात्मना । श्वासः स्थिरी कृतो येन,सयोगे कुशलो भवेत्॥४३६॥
२२