________________
[३३६]
योग
ममेदमिति भावेन, रागद्वषाश्च सर्वदा। ममता भावना त्यागे,नश्यन्ति प्रपञ्चाः खलु॥४१६॥ येषां रागश्च द्वेषो न, तेषां जन्म न विद्यते । मृत्युस्तेषां समीपेतु, कदाचिन्नैव तिष्ठति ॥४२०॥ एकसमयमात्रं वै, प्रमादो न विधीयताम् । प्रमादोऽपि महाशत्रुः,आन्तरिक उदाहृतः ॥४२॥ बाह्यशत्रुर्बहिर्भावः, विनाशकरणोद्यतः । आभ्यन्तरप्रमादस्तु, सर्व हरति पश्यतः ॥४२२॥ क्षणमात्रप्रसङ्गश्च, प्रमादाय न दीयताम् । स्तोकमपि क्षणं लब्ध्वा,धर्ममार्गात्स पातयेत्॥४२३॥ वीतरागस्य ध्यानं तत्, प्रत्यहं क्रियते जनः । एक श्वासासुध्यानेन, भवकोट्यघतां हरेत् ॥४२४॥ एकमुहूर्तपर्यन्तं, श्वाससङ्ख्या कियद्भवेत् । जैनधर्मानुसारेण, प्रमाणं तस्य कथ्यते ॥४२५॥ त्रिसहस्राधिका सप्तशती, त्रिसप्ततिर्मता। एकदिवससङ्घ यानां, परिमाणं निगद्यते ॥४२६॥ शतंनवतियुक्तं च, सहस्त्राणां त्रयोदश । तदुपर्येकलक्षं च, दिनेश्वासा उदाहृताः ॥४२७॥