________________
-प्रदोप
नश्वरशील भावेषु, आशां कर्तुं न युज्यते । स्वयं रतश्च नो चान्यं,ईश्वरी कत्तु मीश्वरः॥४१०॥ विनाशि पुद्गला ज्ञेयाः, अविनाशीत्वमेवहि । स्वयमेव हि स्वस्मिंश्च,विचारः क्रियते खल॥४११॥ सुवर्णनिगडं पुण्यं, पापं लौहमयं मतम् । पुण्यपापौ परित्यज्य, पृथक् सर्वत्र स्थीयताम॥४१२॥ पञ्चमी च गति प्राप्तिं विना सुखं न जायते । त्रिलोको सुखसंदोहः,तदने विन्दुमात्रकम्॥४१३॥ ज्ञानध्यान रसालीना, निर्विकल्पदशां भजेत् । विकल्पजालकं त्यत्तवा,स्वोपयोगी भवेत्सदा॥४१४, निर्विकल्पोपयोगस्तु, समाधिरूपको मतः । केवलज्ञानप्राकल्यं, तत्र प्रकाशते सदा ॥४१५॥ दर्शनं स्वस्वरूपस्य, जायते तत्र निर्मलम् । कालराक्षस बासस्य, तत्र स्थानं न विद्यते॥४१६॥ अहमस्य मदीयास्ते, ईदृशी यत्र भावना । पन्धनं तत्र विज्ञेयं, बहिरात्मत्व दर्शिनः ॥४१७॥ अहं न कस्य यूयं मे नो, भावना सदा भवेत् । यत्रेदृशी भवेवुद्धिः, तत्स्थानं सुमनोरमम्॥४१८॥