________________
[ ३३४ ]
योग
स्व स्वरूपञ्च स्वान्ते, हि विलोकन्ते च वै जनाः ।
तेषां भवभयं नैव विद्यते च कदाचन ॥४०१ ॥
"
समभावः सदा येषां निर्ममताऽपि सर्वदा । समीपे समता तेषां निवासः क्रियते सदा ॥ ४०२ ॥ किञ्चिन्न बन्धनं तेन, बध्यते साम्पराधिकम् । परपरिणतिस्त्याज्या, परसङ्गश्च सर्वथा ॥ ४०३ ॥ कञ्चुकी त्यागतः सर्पः, सर्पत्वं नैव मुञ्जति । तथा देहस्य संत्यागे, नोज्झति जीवतां जीवः ॥४०४॥ उत्पद्यते पदार्थो यः, स पदार्थो न त्वं खलु । विनश्यसि न त्वं चैव न लघु न महानपि ॥४०५॥ त्वयि न रूपवस्तुत्वं न, जातिन कुलंहितत् । न राजा न चरं कोऽपि न रोगी नैव शोकवान् ॥ ४०६ ॥ सर्वस्मिन्त्वं सदा चासि, भिन्नोऽसि सर्वदा तथा । अवक्तव्यः स्वरूपोऽसि, सच्चिदानन्दरूपकः ॥ ४०७॥ मृत्युजन्मजरा नैव, ईतिर्भीतिर्न विद्यते । कस्यचिच नरेन्द्रस्य यत्राज्ञा सर्वथा नहि ॥ ४०८ ॥ सदेशः स्वस्य विज्ञेयः, अन्यः परश्चज्ञायते । तत्रगन्तु जिज्ञासा, चेदन्यत्सर्वं परित्यजेत् ॥ ४०६ ॥