________________
-प्रदीप
[३३३] देव लोकादि भोगं तु, मन्यते मन्दधीः शिवम् । भावबन्ध परिमुक्तं, गदति ज्ञानिनः शिवम् ॥३६२॥ एक समयमात्रं च, कार्याप्रमादता न हि । धर्मसाधनभावेषु, ज्ञानिना तु विशेषतः ॥३३॥ शिरसि कालचक्रं च, भ्रमति सर्वदा खलु । प्रतिक्षणं च जीवानां, आयुनश्यति पश्यताम्॥३६४॥ अस्थिररूपसंसारः, शरीरमस्थिरंमतम् । सम्पत्तिरस्थिरा ज्ञेया, यौवनमपि नो स्थिरम्॥३६॥ सन्ध्या रागसमानं, तद्धनयौवनसम्मतम् । पदार्थाः सकला ज्ञेयाः,बाह्याश्च स्वप्नसन्निभा॥३६॥ ममेदं मम सर्व च, कर्त्तव्यं सर्वथा न हि । त्वदीयं तु न किञ्चित्स्यात्संसारे स्वप्नसन्निभे॥३६॥ त्वदीयं तव पार्वेऽस्ति, वाह्य तव न विद्यते । ममेदं च ममेदं वै, कथं मूढः प्रघोषयेः ॥३६॥ ममेदं च ममेदं च, वैकारिकः प्रजल्प्यते। आत्मार्थिनां च नो,किश्चित्संसारे परिविद्यते॥३६॥ हृदिचेज्ज्ञान सूर्यस्या, द्वैराग्यं चन्द्रसन्निभम् । तत्समी पेच मिथ्यात्व,तमः किञ्चिन्न जन्यते॥४००॥