________________
[३३२]
योग
दिने चन्द्रस्वरश्चैव, निशायां च चलेद्रविः । अभ्यास स्तादृशो यस्य, पूर्णायुस्तस्य सर्वथा॥३८॥ त्रिरात्रिदिनपर्यन्तं, व्योमतत्त्वं च सञ्चरेत । जीवनं वर्ष पर्यन्तं, तत्पश्चाच विपद्यते ॥३८४॥ चतुर्दिनस्य पर्यन्तं, व्योतत्त्वं च सञ्चलेत् । आयुः पाण्मासिकं ज्ञेयं, दीर्घनिद्रा ततः परा ॥३८॥ लधुनीति वृहन्नीत्योः, वायुश्च युगपत्स्रवेत् । दशदिवसपर्यन्तं, जीवनं तस्य निश्चितम् ॥३८६॥ एक पक्षत्व पर्यन्तं, विपरीतः स्वरश्चलेत् । रोगोत्पत्तिश्च देहेस्या, ज्ज्ञातव्या स्वरवेदिना॥३८॥ निकट मृत्युकालं वै, ज्ञात्वा च तत्वज्ञानिना। आत्मसाधन बाहुल्यं, कर्त्तव्यमप्रमादिना ॥३८८॥ धनबुध्या कुलाचारं, जानन्ति दुष्टबुद्धयः । वस्तुस्वभाव सद्धर्म, जानन्ति विरला जनाः॥३८६।। तत्वं सुवर्णरूप्यादि, कथ्यते गृहिना सदा । स्वद्रव्यगुणपर्यायं, मन्यन्ते ज्ञानिनः खलु ॥३६॥ स्त्रीनरभोग क्रीडां वै, कामं गदन्ति कामिनः । गुणाभिलाषकामंतु, ज्ञानिना वस्तु कथ्यते ॥३६१॥