________________
[३२८]
योगसूर्यो निरन्तरं गत्या, विरात्रिदिवसं चरेत् । ज्ञाते आकाशतत्वे च, आयुवर्षमितंमतम् ॥३४॥ चतुर्दिवसपर्यन्तं, आकाशं सञ्चलेद्यदि । शरीरे स्थिरता ज्ञेया,उत्कृष्टा मासषट्ककम्॥३५०॥ सूर्यस्वरंनिरन्तर्य, त्रिरात्रिदिवसं चलेत् । आयुर्वर्षमितं ज्ञेयं, दीर्घनिद्रां ततो भजेत् ॥३५१॥ षोडशदिवसं सौर्य, स्वरं चलेन्निरन्तरम् । एकमासिकमायुश्च, अवश्यं म्रियते ततः ॥३५२॥ निरन्तरं वहेमासं, सूर्यस्वरं कुयोगतः । द्विदिनजीवनं ज्ञेयं, अधिकं न हि कुत्रचित् ॥३५३॥ निरन्तरं सुषुम्ना वै, घटिका पश्च सञ्चलेत् । तत्कालमरणं ज्ञेयं, कथितं ज्ञानभानुना ॥३५४॥ चन्द्रसूयौं न विद्यते, सुषुम्नापि च नो भवेत् । मुखाच्छ्वासस्य सञ्चारे,चत्वारो घटिकास्थितिः॥३५५ चन्द्रस्वरो दिने चैव, रात्रौ सूर्यस्वरो भवेत् । मन्तव्यमितिदीर्घायुः, स्वरयोगप्रधानतः ॥३५६॥ सूर्यस्वरो दिने चैव, रात्रौ चन्द्रस्वरोभवेत् । जीवितं मासषट्कंच, अग्रेचाशा न विद्यते॥३५७॥