________________
-प्रदीप
[३२७] चन्द्रस्वरे च सञ्चारे, भोजनं च वितन्यते । सूर्यस्वरे पयः पाने, नायाति तनु रोगताम् ॥३४०॥ अजीर्णे भुक्ति भुञ्जाने, स्त्रीभुक् च पलहीनके । अपथ्य पथ्य कर्तव्ये, नेत्रहानिश्च जायते ॥३४१॥ पञ्चसप्तदिनादौ च, स्वरेषु विपरीतता। विज्ञेया विग्रहे पीडा, स्वरज्ञानानुसारतः ॥३४२॥ स्थण्डिले इङ्गला ज्ञेया, लघुनीत्यां च पिङ्गला । पूर्वदिशासु शायं च,प्रतिदिनं हि सम्मतम्॥३४३॥ दिवसे चन्दसञ्चारे, राज्यां सूर्यस्वरे तथा । अभ्यासे तादृशे कार्ये, आयुः पूर्णतु भुज्यते॥३४४॥ विपर्यासे च सञ्चारे, फलं स्वरस्य ज्ञायते। समीपे चागतं मृत्युः, तत्र किंचिन्न संशयः॥३४॥ द्विघटिका च ह्यध्यर्धा, चन्द्र सूर्यस्वरौ मतौ । त्रयोदशात्र स्वासा स्युः,सुषुम्ना स्वरचालने ॥३४६॥ अष्टौ प्रहरपर्यन्तं, भानुस्वरो निरन्तरम् । यदि चलेत्तदा ज्ञेयं, आयुष्कर्म त्रिवार्षिकम् ॥३४७॥ चान्द्रश्च पिङ्गलायाश्च, षोडश प्रहरावधि । यदि भवति सञ्चारः,आयुस्तदा द्विवार्षिकम्॥३४८॥