________________
[ ३२६ ]
योग
स्वरं, विज्ञाय कर्त्तव्ये, कार्ये कुशलता सदा । अन्यथा मूढवत्कार्यं, सम्मूर्छिमं च सम्मतम् ॥३३२॥ तिथिवार नक्षत्राणां, योगस्यकरणे खलु । दिक्छूल तिथिदग्धानां व्यतिपातकवस्तूनाम् ॥३३३ शुक्रास्तयोगिन्याश्चैव, यमघण्टादिवस्तूनाम् । सञ्चाश्चापयोगानां स्वरज्ञाने न विद्यते ॥ ३३४॥ विज्ञेयं स्वर विज्ञानं, मानसे गुरुयोगतः । सरोहि चोदकं नाना, शोभानैव समर्प्यते ॥ ३३५॥ देवकुलं बिना देवं, विना चन्द्रं विभावरी । साधवश्च तपो हीना, तपोऽपि समतां विना ॥ ३३६ ॥ यथैव ते न शोभन्ते, तथैवात्रावधार्यताम् | विनैव स्वरविज्ञानं, योगीन्द्रो नैव शोभते ॥ ३३७ ॥ न भवेत्साधनं नाना, स्वरज्ञानं च पूर्णकम् । अतो गुरुगमाद्यंच, पूर्ण साधनकारणम् ||३३८ ॥ दक्षिण स्वरभुक्तिश्च, वामतः पीयते जलम् । शयनं वामपार्श्वे, स्थान्नायाति तनुरोगता ॥ ३३६ ॥ १ -पृथक पृथक २ – बिना ।
२