________________
[ ३२२ ]
योग
चन्दस्वरे कृते प्रश्ने, तस्य सूर्यस्वरो भवेत् । पुत्री चोत्पद्यते तस्य, साजीवेन्न कदाचन ॥ २६६॥ चन्द्रस्वरस्तयोर्द्वयोः, प्रश्नक प्राश्निकेषु च । कन्या निश्चयतो ज्ञेया, दीर्घायुः साऽपि भुज्यते ॥ ३००॥ क्षमातत्त्वे च ज्ञातव्ये, प्रश्नकर्त्तुर्नरस्य वै । सन्मानं राजद्वारा स्याद्रूपे, देवकुमारवत् ॥ ३०१ ॥ जलतत्वे समागत्य, प्रश्नः केनापि तन्यते । धनवांश्च सुखीपुत्रः, भोक्ता षड्रसवस्तुनः || ३०२॥ अग्नितत्त्वे कृते प्रश्ने, गर्भपतनता भवेत् । यदि च जायते जन्म, जीवेन्नहि स सर्वथा ॥ ३०३॥ वायुतत्त्वे कृते प्रश्ने, गर्भोगलति वै तदा । प्रश्नकरणकाले च, यदि छाया च विद्यते ॥ ३०४॥ व्योमतत्त्वे च पृष्टव्ये, गर्भो नपुंसको भवेत् । चलच्चन्द्रेतु कन्यास्यात्, वन्ध्यात्व दोषसंयुक्ता ॥ ३०५ ॥ चन्द्रसूर्यस्वरे चारे, यदि चन्द्रवली भवेत् । गर्भवत्याश्च गर्भे वै कन्यायुग्मं च जायते ॥ ३०६ ॥ चन्द्रसूर्यस्वरे चारे, यदि रविर्वली भवेत् । गर्भवत्याश्च गर्भे तु, पुत्ररत्नस्य युग्मकम् ॥३०७॥