________________
-प्रदोप
[३२३] स्त्री गर्भाधानके तत्त्वं, यद्वा शुभाशुभं भवेत् । तस्यफलं क्रमेणैव, विज्ञेयं शास्त्रयोगतः ॥३०॥ जातो गर्भः क्षमातत्त्वे, सन्मानं लभते सदा। स्वयं सुखी च राजा,स्यात्कर्तव्यो नैव संशयः॥३०॥ गर्भाधाने च के तत्त्वे, पुण्ययोगेन चेद्यदि । धनी भोगी सदाचारी, दारकः स्याद्विचक्षणः॥३१॥ गर्भाधानं च वहौस्यादल्पायुष्कसुतो भवेत् । विद्यते जीवने दुःखं,तन्माता मियतेऽथवा ॥३११॥ गर्भाधानं च वायौ स्याद, दुःखी देशान्तरे खलु। बुद्धिहीनं मनस्तस्य, जायते वायुयोगतः ॥३१२॥ गर्भाधाने नभस्तत्त्वे गर्भस्यैव च हानिता। तत्त्वे जन्मफलंवच्मि, अनुक्रमेण ज्ञायताम् ॥३१३॥ पृथ्वीतत्वे सुतो ज्ञेयः, जलतत्वे सुता मता। गर्भो वाताग्निवायूनां, गगने क्लीयरूपता ॥२१४॥ स्व स्व स्वरे च कर्तव्ये, प्राधान्यं परिज्ञायताम् । संक्रमसमये प्रश्ने,स्थितेऽपि नाशता भवेत् ॥३१५॥
१-जले ।