SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ [ ३१८] योगअग्निवाय्योश्च हानिः,स्यात्कार्य नभसि निष्फलम् । रणकार्ये वली बह्निः, भूजलयोश्च संग्रहे ॥२६४॥ जीवितविजयालाभे, मित्रार्थयुद्धसङ्कटे । गमनागम कार्ये च, ज्ञेया सर्वोत्तमा मही ॥२६॥ कलहशोकभावेष, मरणोत्पात संक्रमे ! वायोः फलं च विज्ञेयं, प्रसिद्ध स्वरयोगतः ॥२६६॥ राजनाशोनि तत्त्वे च, दुर्भिक्षं च क्षमाजले । रोगादयश्च विज्ञेयाः, तत्तत्त्वस्यैवचारके ॥२६७॥ दुर्भिक्षघोरसंक्लेशो, देशभङ्गभयादिकम् । अनिलाकाशतायां च, चतुष्पदविनाशता ॥२६॥ महेन्द्रवरुणे योगे, वृधिर्धनस्य जायते। राजवृद्धिः प्रजासौख्यं, कालश्च सुखदो मतः॥२६॥ पृथिवीजलतत्त्वे च, चन्द्रस्थानं स्थिरंमतम् । तयोः फलं शुभं ज्ञेयं, अनुपमं च सर्वदा ॥२७॥ पृथिव्यां बहुपादास्युः, जलवाय्वोयुगौ पदौ । चतुष्पदाश्च वहौस्युः, आकाशं पादहीनकम्।।२७१॥ रविस्वर्भानुभौमत्वं, शनिसौरीशस्वामिनः । पञ्चतत्त्वस्य ज्ञातव्याः, सूर्यस्य परिकीर्तिताः ॥२७२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy