________________
[३१६]
योगआग्रहेणैव कर्तव्ये, हानिर्भवति निश्चिता। दुःखदौर्भाग्य पीडां,च लभेत नात्र संशयः॥२४६॥ श्वासशीघ्रपरावर्ते, क्षणे चन्द्रः क्षणे रविः । सुषुम्ना स स्वरोज्ञेयः,स्वरज्ञानं चिकीर्णता॥२४७॥ सुषुम्ना स्वर सञ्चारे, आत्मध्यानं विधीयते । आत्मतत्त्व परामर्श,संसारेऽलिप्तता भवेत् ॥२४८॥ तत्त्वस्वरूप ज्ञातव्ये, उपायस्तु प्रकाश्यते । भावौ शुभाशुभौ तस्य,हृदयेऽधिकसम्मतौ॥२४६॥ चरस्थिरप्रवक्तव्ये, तृतीया द्विस्वभावजा । वार्ताऽपि कथिता ज्ञेया,सुषुम्ना श्वरसम्भवा२५०॥ द्वयंगुष्टाभ्यां च करणे द्वै तर्जनीभ्यां तु चक्षुषी। मध्यमाभ्यां च घ्राणे द्व,पराभ्यां चाधरौ स्मृतौ।२५१॥ आच्छाद्य भ्रकटौ श्वान्तं, नेयं च गुरुयोगतः । यद्रङ्गयुक्तविन्दुश्च, पतति भ्रकुटौ किल ॥२५२॥ तादृशो वर्णो विज्ञयः,रक्तः श्वेतो हरित्पीतः । श्यामश्चेत्यभिधेयंतद,विन्दुरूपेण ज्ञायताम् ।२५३। प्रथमो वायु सञ्चारः,द्वितीयोग्निश्च सम्मतः । तृतीया भूश्च ज्ञातव्या, तूर्य ज्ञेयं जलं तथा ।२५४